ऋग्वेदसंहिता, पदपाठ · अध्याय 10.64
॥5॥.
-र्व्_8:2।6-
(र्व्_10,64)
कथा । देवानाम् । कतमस्य । यामनि । सु-मन्तु । नाम । शृण्वताम् । मनामहे । कः । मृळाति । कतमः । नः । मयः । करत् । कतमः । ऊती । अभि । आ । ववर्तति
ऋतु-यन्ति । क्रतवः । हृत्-सु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः । न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत
नराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देव-इद्धम् । अभि । अर्चसे । गिरा । सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना
कथा । कविः । तुवि-रवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्ति-भिः । अजः । एक-पात् । सु-हवेभिः । ऋक्व-भिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि
दक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । विवाससि । अतूर्त-पन्थाः । पुरु-रथः । अर्यमा । सप्त-होता । विषु-रूपेषु । जन्म-सु
॥6॥.
-र्व्_8:2।7-
ते । नः । अर्वन्तः । हवन-श्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मि त-द्रवः । सहस्र-साः । मेधसातौ-इव । त्मना । महः । ये । धनम् । सम्-इथेषु । जभ्रिरे
प्र । वः । वायुम् । रथ-युजम् । पुरम्-धिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् । ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । स-चितः । स-चेतसः
त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये । कृशानुम् । अस्तृॠन् । तिष्यम् । सध-स्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे
सरस्वती । सरयुः । सिन्धुः । ऊर्मि-भिः । महः । महीः । अवसा । यन्तु । वक्षणीः । देवीः । आपः । मातरः । सूदयित्न्वः । घृत-वत् । पयः । मधु-मत् । नः । अर्चत
उत । माता । बृहत्-दिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनि-भिः । पिता । वचः । ऋभुक्षाः । वाजः । रथः-पतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः
॥7॥.
-र्व्_8:2।8-
रण्वः । सम्-दृष्टौ । पितुमान्-इव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उप-स्तुतिः । गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि
यम् । मे । धियम् । मरुतः । इन्द्र । देवाः । अददात । वरुण । मित्र । यूयम् । ताम् । पीपयत । पयसाइव । धेनुम् । कुवित् । गिरः । अधि । रथे । वहाथ
कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । स-जात्यस्य । मरुतः । बुबोधथ । नाभा । यत्र । प्रथमम् । सम्-नसामहे । तत्र । जामि-त्वम् । अदितिः । दधातु । नः
ते । हि । द्यावापृथिवी इति । मातरा । मही । देवी । देवान् । जन्मना । यज्ञियेइति । इतः । उभे इति । बिभृतः । उभयम् । भरीम-भिः । पुरु । रेतांसि । पितृ-भिः । च । सिञ्चतः
वि । सा । होत्रा । विश्वम् । अश्नोति । वार्यम् । बृहस्पतिः । अरमतिः । पनीयसी । ग्रावा । यत्र । मधु-सुत् । उच्यते । बृहत् । अवीवशन्त । मति-भिः । मनीषिणः
एव । कविः । तुवि-रवान् । ऋत-ज्ञाः । द्रविणस्युः । द्रविणसः । चकानः । उक्थेभिः । अत्र । मति-भिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म
एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी । ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0