ऋग्वेदसंहिता, पदपाठ · अध्याय 10.63
॥2॥.
-र्व्_8:2।3-
(र्व्_10,63)
परावतः । ये । दिधिषन्ते । आप्यम् । मनु-प्रीतासः । जनिम । विवस्वतः । ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः
विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः । ये । स्थ । जाताः । अदितेः । अत्-भ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम्
येभ्यः । माता । मधु-मत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रि-बर्हाः । उक्थ-शुष्मान् । वृष-भरान् । स्वप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये
नृ-चक्षसः । अनि-मिषन्तः । अर्हणा । बृहत् । देवासः । अमृत-त्वम् । आनशुः । ज्योतिः-रथाः । अहि-मायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये
सम्-राजः । ये । सु-वृधः । यज्ञम् । आययुः । अपरि-ह्वृताः । दधिरे । दिवि । क्षयम् । तान् । आ । विवास । नमसा । सुवृक्ति-भिः । महः । आदित्यान् । अदितिम् । स्वस्तये
॥3॥.
-र्व्_8:2।4-
कः । वः । स्तोमम् । राधति । यम् । जुजोषथ । विश्वे । देवासः । मनुषः । यति । स्थन । कः । वः । अध्वरम् । तुवि-जाताः । अरम् । करत् । यः । नः । पर्षत् । अत् इ । अंहः । स्वस्तये
येभ्यः । होत्राम् । प्रथमाम् । आयेजे । मनुः । समिद्ध-अग्निः । मनसा । सप्त । होतृ-भिः । ते । आदित्याः । अभयम् । शर्म । यच्छत । सु-गा । नः । कर्त । सु-पथा । स्वस्तये
ये । ईशिरे । भुवनस्य । प्र-चेतसः । विश्वस्य । स्थातुः । जगतः । च । मन्तवः । ते । नः । कृतात् । अकृतात् एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये
भरेषु । इन्द्रम् । सु-हवम् । हवामहे । अंहः-मुचम् । सु-कृतम् । दैव्यम् । जनम् । अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये
सु-त्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सु-शर्माणम् । अदितिम् । सु-प्रनीतिम् । दैवीम् । नावम् । सु-अरित्राम् । अनागसम् । अस्रवन्तीम् । आ । रुहेम । स्वस्तये
॥4॥.
-र्व्_8:2।5-
विश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुः-एवायाः । अभि-ह्रुतः । सत्यया । वः । देव-हूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये
अप । अमीवाम् । अप । विश्वाम् । अनाहुतिम् । अप । अरातिम् । दुः-विदत्राम् । अघ-यतः । आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये
अरिष्टः । सः । मर्तः । विश्वः । एधते । प्र । प्र-जाभिः । जायते । धर्मणः । परि । यम् । आदित्यासः । नयथ । सुनीति-भिः । अति । विश्वानि । दुः-इता । स्वस्तये
यम् । देवासः । अवथ । वाज-सातौ । यम् । शूर-साता । मरुतः । हिते । धने । प्रातः-यावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये
स्वस्ति । नः । पथ्यासु । धन्व-सु । स्वस्ति । अप्-सु । वृजने । स्वः-वति । स्वस्ति । नः । पुत्र-कृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन
स्वस्तिः । इत् । हि । प्र-पथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति । सा । नः । अमा । सो इति । अरणे । नि । पातु । सु-आवेशा । भवतु । देव-गोपा
एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी । ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0