भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.62

10.62.1

॥30॥.
-र्व्_8:2।1-
(र्व्_10,62)
ये । यज्ञेन । दक्षिणया । सम्-अक्ताः । इन्द्रस्य । सख्यम् । अमृत-त्वम् । आनश । तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सु-मेधसः

10.62.2

ये । उत्-आजन् । पितरः । गो--मयम् । वसु । ऋतेन । अभिन्दन् । परि-वत्सरे । वलम् । दीर्घायु-त्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सु-मेधसः

10.62.3

ये । ऋतेन । सूर्यम् । आ । अरोहयन् । दिवि । अप्रथयन् । पृथिवीम् । मातरम् । वि । सुप्रजाः-त्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सु-मेधसः

10.62.4

अयम् । नाभा । वदति । वल्गु । वः । गृहे । देव-पुत्राः । ऋषयः । तत् । शृणोतन । सु-ब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सु-मेधसः

10.62.5

वि-रूपासः । इत् । ऋषयः । ते । इत् । गम्भीर-वेपसः । ते । अङ्गिरसः । सूनवः । ते । अग्नेः । परि । जज्ञिरे

10.62.6

॥1॥.
-र्व्_8:2।2-
ये । अग्नेः । परि । जज्ञिरे । वि-रूपासः । दिवः । परि । नव-ग्वः । नु । दश-ग्वः । अङ्गिरः-तमः । सचा । देवेषु । मंहते

10.62.7

इन्द्रेण । युजा । निः । सृजन्त । वाघतः । व्रजम् । गो--मन्तम् । अश्विनम् । सहस्रम् । मे । ददतः । अष्ट-कर्ण्यः । श्रवः । देवेषु । अक्रत

10.62.8

प्र । नूनम् । जायताम् । अयम् । मनुः । तोक्म-इव । रोहतु । यः । सहस्रम् । शत-अश्वम् । सद्यः । दानाय । मंहते

10.62.9

न । तम् । अश्नोति । कः । चन । दिवः-इव । सानु । आरभम् । सावर्ण्यस्य । दक्षिणा । वि । सिन्धुः-इव । पप्रथे

10.62.10

उत । दासा । परि-विषे । स्मद्दिष्टी इतिस्मत्-दिष्टी । गो--परीणसा । यदुः । तुर्वः । च । मामहे

10.62.11

सहस्र-दाः । ग्राम-नीः । मा । रिषत् । मनुः । सूर्येण । अस्य । यतमाना । एतु । दक्षिणा । सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अस्रान्ताः । असनाम । वाजम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc