भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.5

10.5.1

॥32॥.
-र्व्_7:5।33-
(र्व्_10,5)
एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरि-जन्मा । वि । चष्टे । सि सक्ति । ऊधः । निण्योः । उप-स्थे । उत्सस्य । मध्ये । नि-हितम् । पदम् । वेरितिवेः

10.5.2

समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः । ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि

10.5.3

ऋतयिनी इत्य् ऋऋत-यिनी । मायिनी इति । सम् । दधातेइति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति । विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । वि-यन्तः

10.5.4

ऋतस्य । हि । वर्तनयः । सु-जातम् । इषः । वाजाय । प्र-दिवः । सचन्ते । अधीवासम् । रोदसी इति । ववसाने इति । घृतैः । अन्नैः । ववृधातेइति । मधूनाम्

10.5.5

सप्त । स्वसृॠः । अरुषीः । वावशानः । विद्वान् । मध्वः । उत् । जभार । दृशे । कम् । अन्तः । येमे । अन्तरिक्षे । पुराजाः । इच्छन् । वव्रिम् । अविदत् । पूषणस्य

10.5.6

सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । एकाम् । इत् । अभि । अंहुरः । गात् । आयोः । ह । स्कम्भः । उप-मस्य । नीळे । पथाम् । वि-सर्गे । धरुणेषु । तस्थौ

10.5.7

असत् । च । सत् । च । परमे । वि-ओमन् । दक्षस्य । जन्मन् । अदितेः । उप-स्थे । अग्निः । ह । नः । प्रथम-जाः । ऋतस्य । पूर्वे । आयुनि । वृषभः । च । धेनुः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc