ऋग्वेदसंहिता, पदपाठ · अध्याय 10.59
॥21॥.
-र्व्_8:1।22-
(र्व्_10,59)
प्र । तारि । आयुः । प्र-तरम् । नवीयः । स्थाताराइव । क्रतु-मता । रथस्य । अध । च्यवानः । उत् । तवीति । अर्थम् । परातरम् । सु । निः-ऋतिः । जिहीताम्
सामन् । नु । राये । निधि-मत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि । ता । नः । विश्वानि । जरिता । ममत्तु । परातरम् । सु । निः-ऋतिः । जिहीताम्
अभि । सु । अर्यः । पैंस्यैः । भवेम । द्यौः । न । भूमिम् । गिरयः । न । अज्रान् । ता । नः । विश्वानि । जरिता । चिकेत । परातरम् । सु । निः-ऋतिः । जिहीताम्
मो इति । सु । णः । सोम । मृत्यवे । परा । दाः । पश्येम । नु । सूर्यम् । उत्-चरन्तम् । द्यु-भिः । हितः । जरिमा । सु । नः । अस्तु । परातरम् । सु । निः-ऋतिः । जिहीताम्
असु-नीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः । आयुः । ररन्धि । नः । सूर्यस्य । सम्-दृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व
॥22॥.
-र्व्_8:1।23-
असु-नीते । पुनः । अस्मासु । चक्षुः । पुनरिति । प्राणम् । इह । नः । धेहि । भोगम् । ज्योक् । पश्येम । सूर्यम् । उत्-चरन्तम् । अनु-मते । मृळय । नः । स्वस्ति
पुनः । नः । असुम् । पृथिवी । ददातु । पुनः । द्यौः । देवी । पुनः । अन्तरिक्षम् । पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः
शम् । रोदसी इति । सु-बन्धवे । यह्वी इति । ऋतस्य । मातरा । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत्
अव । द्वके इति । अव । त्रिका । दिवः । चरन्ति । भेषजा । क्षमा । चरिष्णुएककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत्
सम् । इन्द्र । ईरय । गाम् । अनडवढबदबद्रह्णाहम् । यः । आ । स्वहत् । उशीनराण्याः । अनः । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0