ऋग्वेदसंहिता, पदपाठ · अध्याय 10.60
॥23॥.
-र्व्_8:1।24-
(र्व्_10,60)
आ । जनम् । त्वेष-सन्दृशम् । माहीनानाम् । उप-स्तुतम् । अगन्म । बिभ्रतः । नमः
असमातिम् । नि-तोशनम् । त्वेषम् । नि-ययिनम् । रथम् । भजे--रथस्य । सत्-पतिम्
यः । जनान् । महिषान्-इव । अति-तस्थौ । पवीरवान् । उत । अपवीरवान् । युधा
यस्य । इक्ष्वाकुः । उप । व्रते । रेवान् । मरायी । एधते । दिवि-इव । पञ्च । कृष्टयः
इन्द्र । क्षत्रा । असमातिषु । रथ-प्रोष्ठेषु । धारय । दिवि-इव । सूर्यम् । दृशे
अगस्त्यस्य । नत्-भ्यः । सप्ती इति । युनक्षि । रोहिता । पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः
॥24॥.
-र्व्_8:1।25-
अयम् । माता । अयम् । पिता । अयम् । जीवातुः । आ । अगमत् । इदम् । तव । प्र-सर्पणम् । सुबन्धो इतिसु-बन्धो । आ । इहि । निः । इहि
यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् । एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्ट-तातये
यथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् । एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्ट-तातये
यमात् । अहम् । वैवस्वतात् । सु-बन्धोः । मनः । आ । अभरम् । जीवातवे । न । मृत्यवे । अथो इति । अरिष्ट-तातये
न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः । नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः
अयम् । मे । हस्तः । भग-वान् । अयम् । मे । भगवत्-तरः । अयम् । मे । विश्व-भेषजः । अयम् । शिव-अभिमर्शनः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0