ऋग्वेदसंहिता, पदपाठ · अध्याय 10.58
॥19॥.
-र्व्_8:1।20-
(र्व्_10,58)
यत् । ते । यमम् । वैवस्वतम् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । दिवम् । यत् । पृथिवीम् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । भूमिम् । चतुः-भृष्टिम् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामस् इ । इह । क्षयाय । जीवसे
यत् । ते । चतस्रः । प्र-दिशः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । समुद्रम् । अर्णवम् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामस् इ । इह । क्षयाय । जीवसे
यत् । ते । मरीचीः । प्र-वतः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
॥20॥.
-र्व्_8:1।21-
यत् । ते । अपः । यत् । ओषधीः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामस् इ । इह । क्षयाय । जीवसे
यत् । ते । सूर्यम् । यत् । उषसम् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । पर्वतान् । बृहतः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । विश्वम् । इदम् । जगत् । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामस् इ । इह । क्षयाय । जीवसे
यत् । ते । पराः । परावतः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
यत् । ते । भूतम् च । भव्यम् । च । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0