भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.55

10.55.1

॥15॥.
-र्व्_8:1।16-
(र्व्_10,55)
दूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयः-धै । उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघ-वन् । तित्विषाणः

10.55.2

महत् । तत् । नाम । गुह्यम् । पुरु-स्पृक् । येन । भूतम् । जनयः । येन । भव्यम् । प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च

10.55.3

आ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतु-शः । सप्त-सप्त । चतुः-त्रि ंशता । पुरुधा । वि । चष्टे । स-रूपेण । ज्योतिषा । वि-व्रतेन

10.55.4

यत् । उषः । औच्छः । प्रथमा । वि-भानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् । यत् । ते । जामि-त्वम् । अवरम् । परस्याः । महत् । महत्याः । असुर-त्वम् । एकम्

10.55.5

विधुम् । दद्राणम् । समने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार । देवस्य । पश्य । काव्यम् । महि-त्वा । अद्य । ममार । सः । ह्यः । सम् । आन

10.55.6

॥16॥.
-र्व्_8:1।17-
शाक्मना । शाकः । अरुणः । सु-पर्णः । आ । यः । महः । शूरः । सनात् । अनीळः । यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता

10.55.7

आ । एभिः । ददे । वृष्ण्या । पैंस्यानि । येभिः । औक्षत् । वृत्र-हत्याय । वज्री । ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋते--कर्मम् । उत्-अजायन्त । देवाः

10.55.8

युजा । कर्माणि । जनयन् । विश्वाओजाः । अशस्ति-हा । विश्व-मनाः । तुराषाट् । पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc