भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.56

10.56.1

॥17॥.
-र्व्_8:1।18-
(र्व्_10,56)
इदम् । ते । एकम् । परः । ओं इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । सम्-वेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे

10.56.2

तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् । अह्रुतः । महः । धरुणाय । देवान् । दिवि-इव । ज्योतिः । स्वम् । आ । मिमीयाः

10.56.3

वाजी । असि । वाजिनेन । सु-वेनीः । सुवितः । स्तोमम् । सुवितः । दिवम् । गाः । सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म

10.56.4

महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् । सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरित् इ

10.56.5

सहः-भिः । विश्वम् । परि । चक्रमुः । रजः । पूर्वा । धामानि । अमिता । मिमानाः । तनूषु । विश्वा । भुवना । नि । येमिरे । प्र । असारयन्त । पुरुध । प्र-जाः । अनु

10.56.6

द्विधा । सूनवः । असुरम् । स्वः-विदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा । स्वाम् । प्र-जाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आततम्

10.56.7

नावा । न । क्षोदः । प्र-दिशः । पृथिव्याः । स्वस्ति-भिः । अति । दुः-गानि । विश्वा । स्वाम् । प्र-जाम् । बृहत्-उक्थः । महि-त्वा । अवरेषु । अदधात् । आ । परेषु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc