ऋग्वेदसंहिता, पदपाठ · अध्याय 10.54
॥14॥.
-र्व्_8:1।15-
(र्व्_10,54)
ताम् । सु । ते । कीर्तिम् । मघ-वन् । महि-त्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् । प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्र-जायै । त्वस्यै । यत् । अशिक्षः । इन्द्र
यत् । अचरः । तन्वा । ववृधानः । बलानि । इन्द्र । प्र-ब्रुवाणः । जनेषु । माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से
के । ओं इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः । यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः
चत्वारि । ते । असुर्याणि । नाम । अदाभ्यानि । महिषस्य । सन्ति । त्वम् । अङ्ग । तानि । व् इश्वानि । वित्से । येभिः । कर्माणि । मघ-वन् । चकर्थ
त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि । कामम् । इत् । मे । मघ-वन् । मा । वि । तारीः । त्वम् । आज्ञाता । त्वम् । इन्द्र । असि । दाता
यः । अदधात् । ज्योतिषि । ज्योतिः । अन्तः । यः । असृजत् । मधुना । सम् । मधूनि । अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्म-कृतः । बृहत्-उक्थात् । अवाचि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0