भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.53

10.53.1

॥12॥.
-र्व्_8:1।13-
(र्व्_10,53)
यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकि त्वान् । सः । नः । यक्षत् । देव-ताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत्

10.53.2

अराधि । होता । नि-सदा । यजीयान् । अभि । प्रयांसि । सु-धितानि । हि । ख्यत् । यजामहै । यज्ञियान् । हन्त । देवान् । ईळामहै । ईड्यान् । आज्येन

10.53.3

साध्वीम् । अकः । देव-वीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् । सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देव-हूतिम् । नः । अद्य

10.53.4

तत् । अद्य । वाच । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम । ऊर्ज-अदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम्

10.53.5

पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गो--जाताः । उत । ये । यज्ञियासः । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान्

10.53.6

॥13॥.
-र्व्_8:1।14-
तन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धि या । कृतान् । अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम्

10.53.7

अक्ष-नहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिं शत । अष्टावन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम्

10.53.8

अश्मन्-वती । रीयते । सम् । रभध्वम् । उत् । तिष्ठत । प्र । तरत । सखायः । अत्र । जहाम । ये । असन् । अशेवाः । शिवान् । वयम् । उत् । तरेम । अभि । वाजान्

10.53.9

त्वष्टा । माया । वेत् । अपसाम् । अपः-तमः । बिभ्रत् । पात्रा । देव-पानानि । शम्-तमा । शिशीते । नूनम् । परशुम् । सु-आयसम् । येन । वृश्चात् । एतशः । ब्रह्मणः । पतिः

10.53.10

सतः । नूनम् । कवयः । सम् । शिशीत । वाशीभिः । याभिः । अमृताय । तक्षथ । विद्वांसः । पदा । गुह्यानि । कर्तन । येन । देवासः । अमृत-त्वम् । आनशुः

10.53.11

गर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया । सः । विश्वाहा । सु-मनाः । योग्याः । अभि । ससासनिः । वनते । कारः । इत् । जितिम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc