भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.52

10.52.1

॥11॥.
-र्व्_8:1।12-
(र्व्_10,52)
विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । नि-सद्य । प्र । मे । ब्रूत । भाग-धेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि

10.52.2

अहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति । अहः-अहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्-इत् । भवति । सा । आहुतिः । वाम्

10.52.3

अयम् । यः । होता । किः । ओं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्-अञ्जन्ति । देवाः । अहः-अहः । जायते । मासि-मासि । अथ । देवाः । दधिरे । हव्य-वाहम्

10.52.4

माम् । देवाः । दधिरे । हव्य-वाहम् । अप-म्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् । अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्च-यामम् । त्रि-वृतम् । सप्त-तन्तुम्

10.52.5

आ । वः । यक्षि । अमृत-त्वम् । सु-वीरम् । यथा । वः । देवाः । वरिवः । कराणि । आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति

10.52.6

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc