भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.51

10.51.1

॥9॥.
-र्व्_8:1।10-
(र्व्_10,51)
महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आविष्टितः । प्र-विवेशिथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जात-वेदः । तन्वः । देवः । एकः

10.51.2

कः । मा । दृर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परि-अपश्यत् । क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्-इधः । देव-यानीः

10.51.3

ऐच्छाम । त्वा । बहुधा । जात-वेदः । प्र-विष्टम् । अग्ने । अप्-सु । ओषधीषु । तम् । त्वा । यमः । अच्चिकेत् । चित्रभानो इतिचित्र-भानो । दश-अन्तरुष्यात् । अति-रोचमानम्

10.51.4

होत्रात् । अहम् । वरुण । बिभ्यत् । आयम् । न । इत् । एव । मा । युनजन् । अत्र । देवाः । तस्य । मे । तन्वः । बहुधा । नि-विष्टाः । एतम् । अर्थम् । न । चिकेत । अहम् । अग्नि ः

10.51.5

एहि । मनुः । देव-युः । यज्ञ-कामः । अरम्-कृत्य । तमसि । क्षेषि । अग्ने । सु-गान् । पथः । कृणुहि । देव-यानान् । वह । हव्यानि । सु-मनस्यमानः

10.51.6

॥10॥.
-र्व्_8:1।11-
अग्नेः । पूर्वे । भ्रातरः । अर्थम् । एतम् । रथी-इव । अध्वानम् । अनु । आ । अवरीवुरिति । तस्मात् । भिया । वरुण । दूरम् । आयम् । गौरः । न । क्षेप्नोः । आविजे । ज्यायाः

10.51.7

कुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जात-वेदः । न । रिष्याः । अथ । वहासि । सु-मनस्यमानः । भागम् । देवेभ्यः । हविषः । सु-जात

10.51.8

प्र-याजान् । मे । अनु-याजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् । घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः

10.51.9

तव । प्र-याजाः । अनु-याजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः । तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्र-द् इशः । चतस्रः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc