भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.50

10.50.1

॥8॥.
-र्व्_8:1।9-
(र्व्_10,50)
प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्व-भुवे । इन्द्रस्य । यस्य । सु-मखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः

10.50.2

सः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । मावते । नरे । विश्वासु । धूः-सु । वाज-कृत्येषु । सत्-पते । वृत्रे । वा । अप्-सु । अभि । शूर । मन्दसे

10.50.3

के । ते । नरः । इन्द्र । ये । ते । इषे । ये । ते । सुम्नम् । स-धन्यम् । इयक्षान् । के । ते । वाजाय । असुर्याय । हिन्विरे । के । अप्-सु । स्वासु । उर्वरासु । पैंस्ये

10.50.4

भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः । भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्व-चर्षणे

10.50.5

अव । नु । कम् । ज्यायान् । यज्ञ-वनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः । असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे

10.50.6

एता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे । वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्-यतम् । वचः

10.50.7

ये । ते । विप्र । ब्रह्म-कृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने । प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc