भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.49

10.49.1

॥6॥.
-र्व्_8:1।7-
(र्व्_10,49)
अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वधर्नम् । अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे

10.49.2

माम् । धुः । इन्द्रम् । नाम । देवता । दिवः । च । ग्मः । च । अपाम् । च । जन्तवः । अहम् । हरी इति । वृषणा । वि-व्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे

10.49.3

अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊति-भिः । अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे

10.49.4

अहम् । पिताइव । वेतसून् । अभिष्टये । तुग्रम् । कुत्साय । स्मत्-इभम् । च । रन्धयम् । अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आधृषे

10.49.5

अहम् । रधयम् । मृगयम् । श्रुतर्वणे । यत् । मा । अजिहीत । वयुना । चन । आनुषक् । अहम् । वेशम् । नम्रम् । आयवे । अकरम् । अहम् । सव्याय । पट्-गृभिम् । अरन्धयम्

10.49.6

॥7॥.
-र्व्_8:1।8-
अहम् । सः । यः । नव-वास्त्वम् । बृहत्-रथम् । सम् । वृत्राइव । दासम् । वृत्र-हा । अरुजम् । यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम्

10.49.7

अहम् । सूर्यस्य । परि । यामि । आशु-भिः । प्र । एतशेभिः । वहमानः । ओजसा । यत् । मा । सावः । मनुषः । आह । निः-निजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः

10.49.8

अहम् । सप्त-हा । नहुषः । नहुः-तरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् । अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम्

10.49.9

अहम् । सप्त । स्रवतः । धारयम् । वृषा । द्रवित्न्वः । पृथिव्याम् । सीराः । अधि । अहम् । अर्णांसि । वि । तिरामि । सु-क्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये

10.49.10

अहम् । तत् । आसु । धारयम् । यत् । आसु । न । देवः । चन । त्वष्टा । अधारयत् । रुशत् । स्पार्हम् । गवाम् । ऊधः-सु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आशिरम्

10.49.11

एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघ-वा । सत्य-राधाः । व् इश्वा । इत् । ता । ते । हरि-वः । शची-वः । अभि । तुरासः । स्व-यशः । गृणन्ति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc