भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.4

10.4.1

॥31॥.
-र्व्_7:5।32-
(र्व्_10,4)
प्र । ते । यक्षि । प्र । ते । इयर्मि । मन्म । भुवः । यथा । वन्द्यः । नः । हवेषु । धन्वन्-इव । प्र-पा । असि । त्वम् । अग्ने । इयक्षवे । पूरवे । प्रत्न । राजन्

10.4.2

यम् । त्वा । जनासः । अभि । सम्-चरन्ति । गावः । उष्णम्-इव । व्रजम् । यविष्ठ । दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन

10.4.3

शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना । धनोः । अधि । प्र-वता । यासि । हर्यम् । जगीषसे । पशुः-इव । अव-सृष्टः

10.4.4

मूराः । अमूर । न । वयम् । चिकित्वः । महि-त्वम् । अग्ने । त्वम् । अङ्ग । वित्से । शये । वव्रिः । चरति । जिह्वया । अदन् । रेरिह्यते । युवतिम् । विश्पतिः । सन्

10.4.5

कू-चित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूम-केतुः । अस्नाता । आपः । वृषभः । न । प्र । वेति । स-चेतसः । यम् । प्र-नयन्त । मतार्ः

10.4.6

तनूत्यजाइव । तस्करा । वनर्गू इति । रशनाभिः । दश-भिः । अभि । अधीताम् । इयम् । ते । अग्ने । नव्यसी । मनीषा । युक्ष्व । रथम् । न । शुचयत्-भिः । अङ्गैः

10.4.7

ब्रह्म । च । ते । जात-वेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् । रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्र-युच्छन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc