ऋग्वेदसंहिता, पदपाठ · अध्याय 10.48
॥4॥.
-र्व्_8:1।5-
(र्व्_10,48)
अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जजामि । शश्वतः । माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम्
अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रितायः । गाः । अजनयम् । अहेः । अधि । अहम् । दस्यु-भ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने
मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् । मम । अनीकम् । सूर्यस्य-इव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च
अहम् । एतम् । गव्ययम् । अश्व्यम् । पशुम् । पुरीषिणम् । सायकेन । हिरण्ययम् । पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः
अहम् । इन्द्रः । न । परा । जिग्ये । इत् । धनम् । न । मृत्यवे । अव । तस्थे । कदा । चन । सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रि षाथन
॥5॥.
-र्व्_8:1।6-
अहम् । एतान् । शाश्वसतः । द्वाद्वा । इन्द्रम् । ये । वज्रम् । युधये । अकृण्वत । आह्वयमानान् । अव । हन्मना । अहनम् । दृळ्हा । वदन् । अनमस्युः । नमस्विनः
अभि । इदम् । एकम् । एकः । अस्मि । निष्षाट् । अभि । द्वा । किम् । ओं इति । त्रयः । करन्ति । खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्तिशत्रवो--निन्द्राः
अहम् । गुङ्गु-भ्यः । अतिथि-ग्वम् । इष्करम् । इषम् । न । वृत्र-तुरम् । विक्षु । धारयम् । यत् । पर्णय-घ्ने । उत । वा । करञ्ज-हे । प्र । अहम् । महे । वृत्र-हत्ये । अशुश्रवि
प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता । दिद्युम् । यत् । अस्य । समिथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम्
प्र । नेमस्मिन् । ददृशे । सोमः । अन्तः । गोपाः । नेमम् । आविः । अस्था । कृणोति । सः । तिग्म-शृङ्गम् । वृषभम् । युयुत्सन् । द्रुहः । तस्थौ । बहुले । बद्धः । अन्तरिति
आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम । ते । मा । भद्राय । शवसे । ततक्षुः । अपराजितम् । अस्तृतम् । अषाळ्हम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0