भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.47

10.47.1

॥2॥.
-र्व्_8:1।3-
(र्व्_10,47)
जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसु-यवः । वसु-पते । वसूनाम् । विद्म । हि । त्वा । गो--पतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.2

सु-आयुधम् । सु-अवसम् । सु-नीथम् । चतुः-समुद्रम् । धरुणम् । रयीणाम् । चर्कृत्यम् । शंस्यम् । भूरि-वारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.3

सु-ब्रह्माणम् । देव-वन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथु-बुध्नम् । इन्द्र । श्रुत-ऋषिम् । उग्रम् । अभिमाति-सहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.4

सनत्-वाजम् । विप्र-वीरम् । तरुत्रम् । धन-स्पृतम् । शूशु-वांसम् । सु-दक्षम् । दस्युहनम् । पूः-भिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.5

अश्व-वन्तम् । रथिनम् । सहस्रिणम् । शतिनम् । वाजम् । इन्द्र । भद्र-व्रातम् । विप्र-वीरम् । स्वः-साम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.6

॥3॥.
-र्व्_8:1।4-
प्र । सप्त-गुम् । ऋत-धीतिम् । सु-मेधाम् । बृहस्पतिम् । मतिः । अच्छ । जिगाति । यः । आङ्गिरसः । नमसा । उप-सद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.7

वनीवानः । मम । दूतासः । इन्द्रम् । सोमाः । चरन्ति । सु-मतीः । इयानाः । हृदि-स्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

10.47.8

यत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् । अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc