भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.46

10.46.1

॥29॥.
-र्व्_8:1।1-
(र्व्_10,46)
प्र । होता । जातः । महान् । नभः-वित् । नृ-सद्वा । सीदत् । अपाम् । उप-स्थेःदधि ःःयःःधायिःसःःतेःवयांसिःयन्ताःवसूनिःविधतेःतनू-पाः

10.46.2

इमम् । विधन्तः । अपाम् । सध-स्थे । पशुम् । न । नष्टम् । पदैः । अनु । ग्मन् । गुहा । चतन्तम् । उशिजः । नमः-भिः । इच्छन्तः । धीराः । भृगवः । अविन्दन्

10.46.3

इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभु-वसः । मूर्धनि । अघ्न्यायाः । सः । शेवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य

10.46.4

मन्द्रम् । होतारम् । उशिजः । नमः-भिः । प्राञ्चम् । यज्ञम् । नेतारम् । अध्वराणाम् । विशाम् । अकृण्वन् । अरतिम् । पावकम् । हव्य-वाहम् । दधतः । मानुषेषु

10.46.5

प्र । भूः । जयन्तम् । महान् । विपः-धाम् । मूराः । अमूरम् । पुराम् । दर्माणम् । नयन्तः । गर्भम् । वनाम् । धियम् । धुः । हिरि-श्मश्रुम् । न । अर्वाणम् । धन-अर्चम्

10.46.6

॥1॥.
-र्व्_8:1।2-
नि । पस्त्यासु । त्रितः । स्तभु-यन् । परि-वीतः । योनौ । सीदत् । अन्तरिति । अतः । सम्-गृभ्य । विशाम् । दमूना । वि-धर्मणा । अयन्त्रैः । ईयते । नॄन्

10.46.7

अस्य । अजरासः । दमाम् । अरित्राः । अर्चत्-धूमासः । अग्नयः । पावकाः । श्वितीचयः । श्वात्रासः । भुरण्यवः । वन-सदः । वायवः । न । सोमाः

10.46.8

प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः । तम् । आयवः । शुचयन्तम् । पावकम् । मन्द्रम् । होतारम् । दधिरे । यजिष्ठम्

10.46.9

द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहः-भिः । ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम्

10.46.10

यम् । त्वा । देवाः । दधिरे । हव्य-वाहम् । पुरु-स्पृहः । मानुषासः । यजत्रम् । सः । यामन् । अग्ने । स्तुवते । वयः । धाः । प्र । देव-यन् । यशसः । सम् । हि । पूर्वीः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc