ऋग्वेदसंहिता, पदपाठ · अध्याय 10.45
॥27॥.
-र्व्_7:8।28-
(र्व्_10,45)
दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जात-वेदाः । तृतीयम् । अप्-सु । नृ-मनाः । अजस्रम् । इन्धानः । एनम् । जरते । सु-आधीः
विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । वि-भृता । पुरु-त्रा । विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आजगन्थ
समुद्रे । त्वा । नृ-मनाः । अप्-सु । अन्तः । नृ-चक्षाः । ईधे । दिवः । अग्ने । ऊधन् । तृतीये । त्वा । रजसि । तस्थि-वांसम् । अपाम् । उप-स्थे । महिषाः । अवर्धन्
अक्रन्दत् । अग्निः । स्तनयन्-इव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्-अञ्जन् । सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति
श्रीणाम् । उत्-आरः । धरुणः । रयीणाम् । मनीषाणाम् । प्र-अर्पणः । सोम-गोपाः । वसुः । सूनुः । सहसः । अप्-सु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः
विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः । वीळुम् । चित् । अद्रिम् । अभिनत् । परायन् । जनाः । यत् । अग्नि म् । अयजन्त । पञ्च
॥28॥.
-र्व्_7:8।29-
उशिक् । पावकः । अरतिः । सु-मेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि । इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन्
दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुः-मर्षम् । आयुः । श्रिये । रुचानः । अग्निः । अमृतः । अभवत् । वयः-भिः । यत् । एनम् । द्यौः । जनयत् । सु-रेताः
यः । ते । अद्य । कृणवत् । भद्र-शोचे । अपूपम् । देव । घृत-वन्तम् । अग्ने । प्र । तम् । नय । प्र-तरम् । वस्यः । अच्छ । अभि । सुम्नम् । देव-भक्तम् । यविष्ठ
आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थे--उक्थे । आ । भज । शस्यमाने । प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनि-त्वैः
त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि । त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गो--मन्तम् । उशिजः । वि । वव्रुः
अस्तावि । अग्निः । नराम् । सु-शेवः । वैश्वानरः । ऋषि-भिः । सोम-गोपाः । अद्वेषे । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सु-वीरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0