ऋग्वेदसंहिता, पदपाठ · अध्याय 10.44
॥25॥.
-र्व्_7:8।26-
(र्व्_10,44)
आ । यातु । इन्द्रः । स्व-पतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् । प्र-त्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन
सु-स्थामा । रथः । सु-यमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृ-पते । गभस्तौ । शीभम् । राजन् । सु-पथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि
आ । इन्द्र-वाहः । नृ-पतिम् । वज्र-बाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् । प्र-त्वक्षसम् । वृषभम् । सत्य-शुष्मम् । आ । ईम् । अस्म-त्रा । सध-मादः । वहन्तु
एव । पतिम् । द्रोण-साचम् । स-चेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृष-यसे । ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । के--निपानाम् । इनः । वृधे
गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सु-आशिषम् । भरम् । आ । याहि । सोमिनः । त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा
॥26॥.
-र्व्_7:8।27-
पृथक् । प्र । आयन् । प्रथमाः । देव-हूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा । न । ये । शेकुः । यज्ञियाम् । नावम् । आरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः
एव । एव । अपाक् । अपरे । सन्तु । दुः-ध्यः । अश्वाः । येषाम् । दुः-युजः । आयुयुज्रे । इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना
गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् । समीचीने इतिसम्-ईचीने । धिषणेइति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति
इमम् । बिभर्मि । सु-कृतम् । ते । अङ्कुशम् । येन । आरुजासि । मघ-वन् । शफ-आरुजः । अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघ-वन् । बोधि । आभगः
गोभिः । तरेम । अमतिम् । दुः-एवाम् । यवेन । क्षुधम् । पुरु-हूत । विश्वाम् । वयम् । राज-भिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम
बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्-तरस्मात् । अधरात् । अघ-योः । इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखि-भ्यः । वरि-वः । कृणोतु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0