ऋग्वेदसंहिता, पदपाठ · अध्याय 10.43
॥23॥.
-र्व्_7:8।24-
(र्व्_10,43)
अच्छ । मे । इन्द्रम् । मतयः । स्वः-विदः । सध्रीचीः । विश्वाः । उशतीः । अनूषत । परि । स्वजन्ते । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघ-वानम् । ऊतये
न । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरु-हूत । शिश्रय । राजाइव । दस्म । नि । सदः । अधि । बर्हि षि । अस्मिन् । सु । सोमे । अव-पानम् । अस्तु । ते
विषु-वृत् । इन्द्रः । अमतेः । उत् । क्षुधः । सः । इत् । रायः । मघ-वा । वस्वः । ईशते । तस्य । इमे । प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः
वयः । न । वृक्षम् । सु-पलाशम् । आ । असदन् । सोमासः । इन्द्रम् । मन्दिनः । चमू-सदः । प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्वः । मनवे । ज्योतिः । आर्यम्
कृतम् । न । श्व-घ्नी । वि । चिनोति । देवने । सम्-वर्गम् । यत् । मघ-वा । सूर्यम् । जयत् । न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघ-वन् । न । उत । नूतनः
॥24॥.
-र्व्_7:8।25-
विशम्-विशम् । मघ-वा । परि । अशायत । जनानाम् । धेनाः । अव-चाकशत् । वृषा । यस्य । अह । शक्रः । सवनेषु । रण्यति । सः । तीव्रैः । सोमैः । सहते । पृतन्यतः
आपः । न । सिन्धुम् । अभि । यत् । सम्-अक्षरन् । सोमासः । इन्द्रम् । कुल्याः-इव । ह्रदम् । वर्धन्ति । विप्राः । महः । अस्य । सादने । यवम् । न । वृष्टिः । दिव्येन । दानुना
वृषा । न । क्रुद्धः । पतयत् । रजः-सु । आ । यः । अर्य-पत्नीः । अकृणोत् । इमाः । अपः । सः । सुन्वते । मघ-वा । जीर-दानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते
उत् । जायताम् । परशुः । ज्योतिषा । सह । भूयाः । ऋतस्य । सु-दुघा । पुराण-वत् । वि । रोचताम् । अरुषः । भानुना । शुचिः । स्वः । ण । शुक्रम् । शुशुचीत । सत्-पतिः
गोभिः । तरेम । अमतिम् । दुः-एवाम् । यवेन । क्षुधम् । पुरु-हूत । विश्वाम् । वयम् । राज-भिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम
बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्-तरस्मात् । अधरात् । अघ-योः । इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखि-भ्यः । वरि-वः । कृणोतु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0