भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.42

10.42.1

॥21॥.
-र्व्_7:8।22-
(र्व्_10,42)
अस्ताइव । सु । प्र-तरम् । लायम् । अस्यन् । भूषन्-इव । प्र । भर । स्तोमम् । अस्मै । वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम्

10.42.2

दोहेन । गाम् । उप । शिक्ष । सखायम् । प्र । बोधय । जरितः । जारम् । इन्द्रम् । कोशम् । न । पूर्णम् । वसुना । नि-ऋष्टम् । आ । च्यवय । मघ-देयाय । शूरम्

10.42.3

किम् । अङ्ग । त्वा । मघ-वन् । भोजम् । आहुः । शिशीहि । मा । शिशयम् । त्वा । शृणोमि । अप्नस्वती । मम । धीः । अस्तु । शक्र । वसु-विदम् । भगम् । इन्द्र । आ । भर । नः

10.42.4

त्वाम् । जनाः । मम-सत्येषु । इन्द्र । सम्-तस्थानाः । वि । ह्वयन्ते । सम्-ईके । अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः

10.42.5

धनम् । न । स्पन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आसुनोति । प्रयस्वान् । तस्मै । शत्रून् । सु-तुकान् । प्रातः । अह्नः । नि । सु-अष्ट्रान् । युवति । हन्ति । वृत्रम्

10.42.6

॥22॥.
-र्व्_7:8।23-
यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघ-वा । कामम् । अस्मे इति । आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम्

10.42.7

आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरु-हूत । तेन । अस्मे इति । धेहि । यव-मत् । गो--मत् । इन्द्र । कृधि । धियम् । जरित्रे । वाज-रत्नाम्

10.42.8

प्र । यम् । अन्तः । वृष-सवासः । अग्मन् । तीव्राः । सोमाः । बहुल-अन्तासः । इन्द्रम् । न । अह । दामानम् । मघ-वा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम्

10.42.9

उत । प्र-हाम् । अति-दीव्य । जयाति । कृतम् । यत् । श्व-घ्नी । वि-चिनोति । काले । यः । देव-कामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधावान्

10.42.10

गोभिः । तरेम । अमतिम् । दुः-एवाम् । यवेन । क्षुधम् । पुरु-हूत । विश्वाम् । वयम् । राज-भिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम

10.42.11

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्-तरस्मात् । अधरात् । अघ-योः । इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखि-भ्यः । वरि-वः । कृणोतु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc