भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.41

10.41.1

॥20॥.
-र्व्_7:8।21-
(र्व्_10,41)
समानम् । ओं इति । त्यम् । पुरु-हूतम् । उक्थ्यम् । रथम् । त्रि-चक्रम् । सवना । गनिग्मतम् । परि-ज्मानम् । विदथ्यम् । सुवृक्ति-भिः । वयम् । वि-उष्टौ । उषसः । हवामहे

10.41.2

प्रातः-युजम् । नासत्या । अधि । तिष्ठथः । प्रातः-यावानम् । मधु-वाहनम् । रथम् । विशः । येन । गच्छतः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृ-मन्तम् । अश्विना

10.41.3

अध्वर्युम् । वा । मधु-पाणिम् । सु-हस्त्यम् । अग्निधम् । वा । धृत-दक्षम् । दमूनसम् । विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधु-पेयम् । अश्विन्चा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc