ऋग्वेदसंहिता, पदपाठ · अध्याय 10.40
॥17॥.
-र्व्_7:8।18-
(र्व्_10,40)
रथम् । यान्तम् । कुह । कः । ह । वाम् । नरा । प्रति । द्यु-मन्तम् । सु-विताय । भूषति । प्रातः-यावाणम् । वि-भ्वम् । विशे--विशे । वस्तोः-वस्तोः । वहमानम् । धिया । शमि
कुह । स्वित् । दोषा । कुह । वस्तोः । अश्विना । कुह । अभि-पित्वम् । करतः । कुह । ऊषतुः । कः । वाम् । शयु-त्रा । विधवाइव । देवरम् । मर्यम् । न । योषा । कृणुते । सध-स्थे । आ
प्रातः । जरेथेइति । जरणाइव । कापया । वस्तोः-वस्तोः । यजता । गच्छथः । गृहम् । कस्य । ध्वस्रा । भवथः । कस्य । वा । नरा । राज-पुत्राइव । सवना । अव । गच्छथः
युवाम् । मृगाइव । वारणा । मृगण्यवः । दोषा । वस्तोः । हविषा । नि । ह्वयामहे । युवम् । होत्राम् । ऋतु-था । जुह्वते । नरा । इषम् । जनाय । वहथः । शुभः । पती इति
युवा । ह । घोषा । परि । अश्विना । यती । राज्ञः । ऊचे । दुहिता । पृच्छे । वाम् । नरा । भूतम् । मे । अह्ने । उत । भूतम् । अक्तवे । अश्व-वते । रथिने । शक्तम् । अर्वते
॥18॥.
-र्व्_7:8।19-
युवम् । कवी इति । स्थः । परि । अश्विना । रथम् । विशः । न । कुत्सः । जरितुः । नशायथः । युवोः । ह । मक्षा । परि । अश्विना । मधु । आसा । भरत । निः । कृतम् । न । योषणा
युवम् । ह । भुज्युम् । युवम् । अश्विना । वशम् । युवम् । शिञ्जारम् । उशनाम् । उप । आरथुः । युवः । ररावा । परि । सख्यम् । आसते । युवोः । अहम् । अवसा । सुम्नम् । आ । चके
युवम् । ह । कृशम् । युवम् । अश्विना । शयुम् । युवम् । विधन्तम् । विधवाम् । उरुष्यथः । युवम् । सनि-भ्यः । स्तनयन्तम् । अश्विना । अप । व्रजम् । ऊर्णुथः । सप्त-आस्यम्
जनिष्ठ । योषा । पतयत् । कनीनकः । वि । च । अरुहम् । वीरुधः । दंसनाः । अनु । आ । अस्मै । रीयन्ते । निवनाइव । सिन्धवः । अस्मै । अह्ने । भवति । तत् । पति-त्वनम्
जीवम् । रुदन्ति । वि । मयन्ते । अध्वरे । दीर्घाम् । अनु । प्र-सितिम् । दीधियुः । नरः । वामम् । पितृ-भ्यः । ये । इदम् । सम्-एरिरे । मयः । पति-भ्यः । जनयः । परि-स्वजे
॥19॥.
-र्व्_7:8।20-
न । तस्य । विद्म । तत् । ओं इति । सु । प्र । वोचत । युवा । ह । यत् । युवत्याः । क्षेति । योनिषु । प्रिय-उस्रियस्य । वृषभस्य । रेतिनः । गृहम् । गमेम । अश्विना । तत् । उश्मसि
आ । वाम् । अगन् । सु-मतिः । वाजिनीवसूइतिवाजिनी-वसू । नि । अश्विना । हृत्-सु । कामाः । अयंसत । अभूतम् । गोपा । मिथुना । शुभः । पती इति । प्रियाः । अर्यम्णः । दुर्यान् । अशीमहि
ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सह-वीरम् । वचस्यवे । कृतम् । तीर्थम् । सु-प्रपानम् । शुभः । पती इति । स्थाणुम् । पथे--स्थाम् । अप । दुः-मतिम् । हतम्
क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेतेइति । शुभः । पती इति । कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0