ऋग्वेदसंहिता, पदपाठ · अध्याय 10.39
॥14॥.
-र्व्_7:8।15-
(र्व्_10,39)
यः । वाम् । परि-ज्मा । सु-वृत् । अश्विना । रथः । दोषाम् । उषसः । हव्यः । हव् इष्मता । शश्वत्-तमासः । तम् । ओं इति । वाम् । इदम् । वयम् । पितुः । न । नाम । सु-हवम् । हवामहे
चोदयतम् । सूनृताः । पिन्वतम् । धियः । उत् । पुरम्-धीः । ईरयतम् । तत् । उश्मसि । यशसम् । भागम् । कृणुतम् । नः । अश्विना । सोमम् । न । चारुम् । मघवत्-सु । नः । कृतम्
अमाजुरः । चित् । भवथः । युवम् । भगः । अनाशोः । चित् । अवितारा । अपमस्य । चि त् । अन्धस्य । चित् । नासत्या । कृशस्य । चित् । युवाम् । इत् । आहुः । भिषजा । रुतस्य । चि त्
युवम् । च्यवानम् । सनयम् । यथा । रथम् । पुनः । युवानम् । चरथाय । तक्षथुः । निः । तौग्र्यम् । ऊहथुः । अत्-भ्यः । परि । विश्वा । इत् । ता । वाम् । सवनेषु । प्र-वाच्या
पुराणा । वाम् । वीर्या । प्र । ब्रव । जने । अथो इति । ह । आसथुः । भिषजा । मयः-भुवा । ता । वाम् । नु । नव्यौ । । अवसे । करामहे । अयम् । नासत्या । श्रत् । अरिः । यथा । दधत्
॥15॥.
-र्व्_7:8।16-
इयम् । वाम् । अह्वे । शृणुतम् । मे । अश्विना । पुत्राय-इव । पितरा । मह्यम् । शिक्षतम् । अनापिः । अज्ञाः । असजात्या । अमतिः । पुरा । तस्याः । अभि-शस्तेः । अव । स्पृतम्
युवम् । रथेन । वि-मदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरु-मित्रस्य । योषणम् । युवम् । हवम् । वध्रि-मत्याः । अगच्छतम् । युवम् । सु-सुतिम् । चक्रथुः । पुरम्-धये
युवम् । विप्रस्य । जरणाम् । उप-ईयुषः । पुनरिति । कलेः । अकृणुतम् । युवत् । वयः । युवम् । वन्दनम् । ऋश्य-दात् । उत् । ऊपथुः । युवम् । सद्यः । विश्पलाम् । एतवे । कृथः
युवम् । ह । रेभम् । वृषणा । गुहा । हितम् । उत् । ऐरयतम् । ममृ-वांसम् । अश्विना । युवम् । ऋबीसम् । उत । तप्तम् । अत्रये । ओमन्-वन्तम् । चक्रथुः । सप्त-वध्रये
युवम् । श्वेतम् । पेदवे । अश्विना । अश्वम् । नव-भिः । वाजैः । नवती । च । वाजि नम् । चर्कृत्यम् । ददथुः । द्रवयत्-सखम् । भगम् । न । नृ-भ्यः । हव्यम् । मयः-भुवम्
॥16॥.
-र्व्_7:8।17-
न । तम् । राजानौ । अदिते । कुतः । चन । न । अंहः । अश्नोति । दुः-इतम् । नकिः । भयम् । यम् । अश्विना । सु-हवा । रुद्रवर्तनी इतिरुद्र-वर्तनी । पुरः-रथम् । कृणुथः । पत्न्या । सह
आ । तेन । यातम् । मनसः । जवीयसा । रथम् । यम् । वाम् । ऋभवः । चक्रुः । अश्वि ना । यस्य । योगे । दुहिता । जायते । दिवः । उभे इति । अहनी इति । सुदिनेइतिसु-दिने । विवस्वतः
ता । वर्तिः । यातम् । जयुषा । वि । पर्वतम् । अपिन्वतम् । शयवे । धेनुम् । अश्विना । वृकस्य । चित् । वरिकाम् । अन्तः । आस्यात् । युवम् । शचीभिः । ग्रसिताम् । अमुञ्चतम्
एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अअतक्षाम । भृगवः । न । रथम् । नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0