ऋग्वेदसंहिता, पदपाठ · अध्याय 10.3
॥30॥.
-र्व्_7:5।31-
(र्व्_10,3)
इनः । राजन् । अरतिः । सम्-इद्धः । रौद्रः । दक्षाय । सुसु-मान् । अदर्शि । चिकित् । वि । भाति । बृहता । असिक्नीम् । एति । रुशतीम् । अप-अजन्
कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसु-भिः । अरतिः । वि । भाति
भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् । सु-प्रकेतैः । द्यु-भिः । अग्निः । वि-तिष्ठन् । रुशत्-भिः । वर्णैः । अभि । रामम् । अस्थात्
अस्य । यामासः । बृहतः । न । वग्नून् । इन्धानाः । अग्नेः । सख्युः । शिवस्य । ईड्यस्य । वृष्णः । बृहतः । सु-आसः । भामासः । यामन् । अक्तवः । चिकित्रे
स्वनाः । न । यस्य । भामासः । पवन्ते । रोचमानस्य । बृहतः । सु-दिवः । ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्-भिः । वर्षिष्ठेभिः । भानु-भिः । नक्षति । द्याम्
अस्य । शुष्मासः । ददृशान-पवेः । जेहमानस्य । स्वनयन् । नियुत्-भिः । प्रत्नेभिः । यः । रुशत्-भिः । देव-तमः । वि । रेभत्-भिः । अरतिः । भाति । व् इ-भ्वा
सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः । अग्निः । सु-तुकः । सुत्-उकेभिः । अश्वैः । रभस्वत्-भिः । रभस्वान् । आ । इह । गम्याः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0