भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.38

10.38.1

॥13॥.
-र्व्_7:8।14-
(र्व्_10,38)
अस्मिन् । नः । इन्द्र । पृत्सुतौ । यशस्वति । शिमी-वति । क्रन्दसि । प्र । अव । सातये । यत्र । गो--साता । धृषितेषु । खादिषु । विष्वक् । पतन्ति । दिद्यवः । नृ-सह्ये

10.38.2

सः । नः । क्षु-मन्तम् । सदने । वि । ऊर्णुहि । गो--अर्णसम् । रयिम् । इन्द्र । श्रवाय्यम् । स्याम । ते । जयतः । शक्र । मेदिनः । यथा । वयम् । उश्मसि । तत् । वसो इति । कृधि

10.38.3

यः । नः । दासः । आर्यः । वा । पुरु-स्तुत । अदेवः । इन्द्र । युधये । चिकेतति । अस्माभिः । ते । सु-सहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्-गमे

10.38.4

यः । दभ्रेभिः । हव्यः । यः । च । भूरि-भिः । यः । अभीके । वरिवः-वित् । नृ-सह्ये । तम् । वि-खादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे

10.38.5

स्व-वृजम् । हि । त्वाम् । अहम् । इन्द्र । शुश्रव । अननु-दम् । वृषभ । रध्र-चोदनम् । प्र । मुञ्चस्व । परि । कुत्सात् । इह । आ । गहि । किम् । ओं इति । त्वावान् । मुष्कयोः । बद्धः । आसते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc