भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.37

10.37.1

॥11॥.
-र्व्_7:8।12-
(र्व्_10,37)
नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत । दूरे--दृशे । देव-जाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत

10.37.2

सा । मा । सत्य-उक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहान् इ । च । विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वहा । अपः । विश्वाहा । उत् । एत् इ । सूर्यः

10.37.3

न । ते । अदेवः । प्र-दिवः । नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि । प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य

10.37.4

येन । सूर्य । ज्योतिषा । बाधसे । तमः । जगत् । च । विश्वम् । उत्-इयर्षि । भानुना । तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुः-स्वप्न्यम् । सुव

10.37.5

विश्वस्य । हि । प्र-इषितः । रक्षसि । व्रतम् । अहेळयन् । उत्-चरसि । स्वधाः । अनु । यत् । अद्य । त्वा । सूर्य । उप-ब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम्

10.37.6

तम् । नः । द्यावापृथिवी इति । तत् । नः । आपः । इन्द्रः । शृण्वन्तु । मरुतः । हवम् । वचः । मा । शूने । भूम । सूर्यस्य । सम्-दृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि

10.37.7

॥12॥.
-र्व्_7:8।13-
विश्वाहा । त्वा । सु-मनसः । सु-चक्षसः । प्रजावन्तः । अनमीवाः । अनागसः । उत्-यन्तम् । त्वा । मित्र-महः । दिवे--दिवे । ज्योक् । जीवाः । प्रति । पश्येम । सूर्य

10.37.8

महि । । ज्योतिः । बिभ्रतम् । त्वा । वि-चक्षण । भास्वन्तम् । चक्षुषे--चक्षुषे । मयः । आरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य

10.37.9

यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तु-भिः । अनागाः-त्वेन । हरि-केश । सूर्य । अह्ना अह्ना । नः । वस्यसावस्यसा । उत् । इहि

10.37.10

शम् । नः । भव । चक्षसा । सम् । नः । अह्ना । शम् । भानुना । शम् । हिमाः । शम् । घृणेन । यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम्

10.37.11

अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्वि-पदे । चतुः-पदे । अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन

10.37.12

यत् । वः । देवाः । चकृम । जिह्वया । गुरु । मनसः । वा । प्र-युती । देव-हेळनम् । अरावा । यः । नः । अभि । दुच्छुन-यते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc