भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.36

10.36.1

॥8॥.
-र्व्_7:8।9-
(र्व्_10,36)
उषसानक्ता । बृहती इति । सु-पेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा । इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वर् इति स्वः

10.36.2

द्यौः । च । नः । पृथिवी । च । प्र-चेतसा । ऋतवरी इत्य् ऋत-वरी । रक्षताम् । अंहसः । रिषः । मा । दुः-विदत्रा । न्र्-ऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.3

विश्वस्मात् । नः । अदितिः । पातु । अंहसः । माता । मित्रस्य । वरुणस्य । रेवतः । स्वः-वत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.4

ग्रावा । वदन् । अप । रक्षांसि । सेधतु । दुः-स्वप्न्यम् । निः-ऋतिम् । विश्वम् । अत्रिणम् । आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.5

आ । इन्द्रः । बर्हिः । सीदतु । पिन्वताम् । इळा । बृहस्पतिः । साम-भिः । ऋक्वः । अर्चतु । सु-प्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.6

॥9॥.
-र्व्_7:8।10-
दिवि-स्पृशम् । यज्ञम् । अस्माकम् । अश्विना । जीर-अध्वरम् । कृणुतम् । सुम्नम् । इष्टये । प्राचीन-रश्मिम् । आहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.7

उप । ह्वये । सु-हवम् । मारुतम् । गणम् । पावकम् । ऋष्वम् । सख्याय । शम्-भुवम् । रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.8

अपाम् । पेरुम् । जीव-धन्यम् । भरामहे । देव-अव्यम् । सु-हवम् । अध्वर-श्रियम् । सु-रश्मिम् । सोमम् । इन्द्रियम् । यमीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.9

सनेम । तत् । सु-सनिता । सनित्व-भिः । वयम् । जीवाः । जीव-पुत्राः । अनागसः । ब्रह्म-द्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.10

ये । स्थाः । मनोः । यज्ञियाः । ते । शृणोतन । यत् । वः । देवाः । ईमहे । तत् । ददातन । जैत्रम् । क्रतुम् । रयिमत् । वीर-वत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.11

॥10॥.
-र्व्_7:8।11-
महत् । अद्य । महताम् । आ । वृणीमहे । अवः । देवानाम् । बृहताम् । अनर्वणाम् । यथा । वसु । वीर-जातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.12

महः । अग्नेः । सम्-इधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये । श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे

10.36.13

ये । सवितुः । सत्य-सवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः । ते । सौभगम् । वीर-वत् । गो--मत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति

10.36.14

सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् । सव् इता । नः । सुवतु । सर्व-तातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc