भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.35

10.35.1

॥5॥.
-र्व्_7:8।6-
(र्व्_10,35)
अबुध्रम् । ओं इति । त्ये । इन्द्र-वन्तः । अग्नयः । ज्योतिः । भरन्तः । उषसः । वि-उष्टिषु । मही इति । द्यावापृथिवी इति । चेतताम् । अपः । अद्य । देवानाम् । अवः । आ । वृणीमहे

10.35.2

दिवःपृथिव्योः । अवः । आ । वृणीमहे । मातॄन् । सिन्धून् । पर्वतान् । शर्यणावतः । अनागाः-त्वम् । सूर्यम् । उषसम् । ईमहे । भद्रम् । सोमः । सुवानः । अद्य । कृणोतु । नः

10.35.3

द्यावा । नः । अद्य । पृथिवी इति । अनागसः । मही इति । त्रायेताम् । सुविताय । मातरा । उषाः । उच्छन्ती । अप । बाधताम् । अघम् । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.4

इयम् । नः । उस्रा । प्रथमा । सु-देव्यम् । रेवत् । सनि-भ्यः । रेवती । वि । उच्छतु । आरे । मन्युम् । दुः-विदत्रस्य । धीमहि । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.5

प्र । याः । सिस्रते । सूर्यस्य । रश्मि-भिः । ज्योतिः । भरन्तीः । उषसः । वि-उष्टिषु । भद्राः । नः । अद्य । श्रवसे । वि । उच्छत । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.6

॥6॥.
-र्व्_7:8।7-
अनमीवाः । उषसः । आ । चरन्तु । नः । उत् । अग्नयः । जिहताम् । ज्योतिषा । बृहत् । अयुक्षाताम् । अश्विना । तूतुजिम् । रथम् । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.7

श्रेष्ठम् । नः । अद्य । सवितः । वरेण्यम् । भागम् । आ । सुव । सः । हि । रत्न-धाः । असि । रायः । जनित्रीन् । धिषणाम् । उप । ब्रुवे । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.8

पिपर्तु । मा । तत् । ऋतस्य । प्र-वाचनम् । देवानाम् । यत् । मनुष्याः । अमन्महि । विश्वाः । इत् । उस्राः । स्पट् । उत् । एति । सूर्यः । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.9

अद्वेषः । अद्य । बर्हिषः । स्तरीमणि । ग्राव्णाम् । योगे । मन्मनः । साधे । ईमहे । आदित्यानाम् । शर्मणि । स्थाः । भुरण्यसि । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.10

आ । नः । बर्हिः । सध-मादे । बृहत् । दिवि । देवान् । ईळे । सादय । सप्त । होतृॠन् । इन्द्रम् । मित्रम् । वरुणम् । सातये । भगम् । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.11

॥7॥.
-र्व्_7:8।8-
ते । आदित्याः । आ । गत । सर्वतातये । वृधे । नः । यज्ञम् । अवत । स-जोषसः । बृहस्पतिम् । पूषणम् । अश्विना । भगम् । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.12

तत् । नः । देवाः । यच्छत । सु-प्रवाचनम् । छर्दिः । आदित्याः । सु-भरम् । नृ-पाय्यम् । पश्वे । तोकाय । तनयाय । जीवसे । स्वस्ति । अग्निम् । सम्-इधानम् । ईमहे

10.35.13

विश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्-इद्धाः । वि श्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति

10.35.14

यम् । देवासः । अवथ । वाज-सातौ । यम् । त्रायध्वे । यम् । पिपृथ । अति । अंहः । यः । वः । गो--पीथे । न । भयस्य । वेद । ते । स्याम । देव-वीतये । तुरासः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc