भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.34

10.34.1

॥2॥.
-र्व्_7:8।3-
(र्व्_10,34)
प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवाते--जाः । इरिणे । वर्वृतानाः । सोमस्य-इव । मौज-वतस्य । भक्षः । वि-भीदकः । जागृविः । मह्यम् । अच्छान्

10.34.2

न । मा । मिमेथ । न । जिहीळे एषा । शिवा । सखि-भ्यः । उत । मह्यम् । आसीत् । अक्षस्य । अहम् । एक-परस्य । हेतोः । अनु-व्रताम् । अप । जायाम् । अरोधम्

10.34.3

द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् । अश्वस्य-इव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम्

10.34.4

अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः । पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम्

10.34.5

यत् । आदीध्ये । न । दविषाणि । एभिः । परायत्-भ्यः । अव । हीये । सखि-भ्यः । नि-उप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निः-कृतम् । जारिणी-इव

10.34.6

॥3॥.
-र्व्_7:8।4-
सभाम् । एति । कितवः । पृच्छमानः । जेष्यामि । इति । तन्वा । शूशुजानः । अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रति-दीव्ने । दधतः । आ । कृतानि

10.34.7

अक्षासः । इत् । अङ्कुशिनः । नि-तोदिनः । नि-कृत्वानः । तपनाः । तापयिष्णवः । कुमार-देष्णाः । जयतः । पुनः-हनः । मध्वा । सम्-पृक्ताः । कितवस्य । बर्हणा

10.34.8

त्रि-पञ्चाशः । क्रीळति । व्रातः । एषाम् । देवः-इव । सविता । सत्य-धर्मा । उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोमि

10.34.9

नीचाः । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्त-वन्तम् । सहन्ते । दिव्याः । अङ्गाराः । इरिणे । नि-उप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति

10.34.10

जाया । तप्यते । कितवस्य । हीना । माता । पुत्रस्य । चरतः । क्व । स्वित् । ऋण-वा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति

10.34.11

॥4॥.
-र्व्_7:8।5-
स्त्रियम् । दृष्टवाय । कितवम् । तताप । अन्येषाम् । जायाम् । सु-कृतम् । च । योनिम् । पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद

10.34.12

यः । वः । सेनानीः । महतः । गणस्य । राजा । व्रातस्य । प्रथमः । बभूव । तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि

10.34.13

अक्षैः । मा । दीव्यह् । कृषिम् । इत् । कृषस्व । वित्ते । रमस्व । बहु । मन्यमानः । तत्त्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः

10.34.14

मित्रम् । कृणुध्वम् । खलु । मृळत । नः । मा । नः । घोरेण । चरत । अभि । धृष्णु । नि । वः । नु । मन्युः । विशताम् । अरातिः । अन्यः । बभ्रूणाम् । प्र-सितौ । नु । अस्तु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc