ऋग्वेदसंहिता, पदपाठ · अध्याय 10.33
॥30॥.
-र्व्_7:8।1-
(र्व्_10,33)
प्र । मा । युयुज्रे । प्र-युजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण । वि श्वे । देवासः । अध । माम् । अरक्षन् । दुः-शासुः । आ । अगात् । इति । घोषः । आसीत्
सम् । मा । तपन्ति । अभितः । सपत्नीः-इव । पर्शवः । नि । बाधते । अमतिः । नग्नता । जसुः । वेः । न । वेवीयते । मतिः
मूषः । न । शिश्ना । वि । अदन्ति । मा । आध्यः । स्तोतारम् । ते । शतक्रतो इतिशत-क्रतो । सकृत् । सु । नः । मघ-वन् । इन्द्र । मृळय । अध । पिताइव । नः । भव
कुरु-श्रवणम् । अवृणि । राजानम् । त्रासदस्यवम् । मंहिष्ठम् । वाघताम् । ऋषिः
यस्य । मा । हरितः । रथे । तिस्रः । वहन्ति । साधु-या । स्तवै । सहस्र-दक्षिणे
॥1॥.
-र्व्_7:8।2-
यस्य । प्र-स्वादसः । गिरः । उपम-श्रवसः । पितुः । क्षेत्रम् । न । रण्वम् । ऊचुषे
अधि । पुत्र । उपम-श्रवः । नपात् । मित्र-अतिथेः । इहि । पितुः । ते । अस्मि । वन्द् इता
यत् । ईशीय । अमृतानाम् । उत । वा । मर्त्यानाम् । जीवेत् । इत् । मघ-वा । मम
न । देवानाम् । अति । व्रतम् । शत-आत्मा । चन । जीवति । तथा । युजा । वि । ववृते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0