भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.32

10.32.1

॥28॥.
-र्व्_7:7।29-
(र्व्_10,32)
प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्र-सीदतः । अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति

10.32.2

वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरु-स्तुत । ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः

10.32.3

तत् । इत् । मे । छन्त्सत् । वपुषः । वपुः-तरम् । पुत्रः । यत् । जानम् । पित्रोः । अधि-इयति । जाया । पतिम् । वहति । वनुना । सु-मत् । पुंसः । इत् । भद्रः । वहतुः । परि-कृतः

10.32.4

तत् । इत् । सध-स्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः । माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्त-धातुः । इत् । जनः

10.32.5

प्र । वः । अच्छ । रिरिचे । देव-युः । पदम् । एकः । रुद्रेभिः । याति । तुर्वणिः । जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु

10.32.6

॥29॥.
-र्व्_7:7।30-
नि-धीयमानम् । अप-गूळ्हम् । अप्-सु । प्र । मे । देवानाम् । व्रत-पाः । उवाच । इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनु-शिष्टः । आ । अगाम्

10.32.7

अक्षेत्र-वित् । क्षेत्र-विदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्र-विदा । अनु-शिष्टः । एतत् । वै । भद्रम् । अनु-शासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम्

10.32.8

अद्य । इत् । ओं इति । प्र । आणीत् । अममन् । इमा । अहा । अपि-वृतः । अधयत् । मातुः । ऊधः । आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सु-मनाः । बभूव

10.32.9

एतानि । भद्रा । कलश । क्रियाम । कुरु-श्रवण । ददतः । मघानि । दानः । इत् । वः । मघ-वानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc