भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.31

10.31.1

॥26॥.
-र्व्_7:7।27-
(र्व्_10,31)
आ । नः । देवानाम् । उप । वेतु । शंसः । विश्वेभिः । तुरैः । अवसे । यजत्रः । तेभ् इः । वयम् । सु-सखायः । भवेम । तरन्तः । विश्वा । दुः-इता । स्याम

10.31.2

परि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । विवासेत् । उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात्

10.31.3

अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः । अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम

10.31.4

नित्यः । चाकन्यात् । स्व-पतिः । दमूनाः । यस्मै । ओं इति । देवः । सविता । जजान । भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात्

10.31.5

इयम् । सा । भूयाः । उषसाम्-इव । क्षाः । यत् । ह । क्षु-मन्तः । शवसा । सम्-आयन् । अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः

10.31.6

॥27॥.
-र्व्_7:7।28-
अस्य । इत् । एषा । सु-मतिः । पप्रथाना । अभवत् । पूर्व्या । भूमना । गौः । अस्य । स-नीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः

10.31.7

किम् । स्वित् । वनम् । कः । ओं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निः-ततक्षुः । सन्तस्थाने इतिसम्-तस्थाने । अजरेइति । इतऊती इतीतः-ऊती । अहानि । पूर्वीः । उषसः । जरन्त

10.31.8

न । एतावत् । एना । परः । अन्यत् । अस्ति । उक्षा । सः । द्यावापृथिवी इति । बिभर्ति । त्वचम् । पवित्रम् । कृणुत । स्वधावान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति

10.31.9

स्तेगः । न । क्षम् । अति । एति । पृथ्वीम् । मिहम् । न । वातः । वि । ह । वाति । भूम । मित्रः । यत्र । वरुणः । अज्यमानः । अग्निः । वने । न । वि । असृष्ट । शोकम्

10.31.10

स्तरीः । यत् । सूत । सद्यः । अज्यमाना । व्यथिः । अव्यथीः । कृणुत । स्व-गोपा । पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान्

10.31.11

उत । कण्वम् । नृ-सदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी । प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc