ऋग्वेदसंहिता, पदपाठ · अध्याय 10.30
॥23॥.
-र्व्_7:7।24-
(र्व्_10,30)
प्र । देव-त्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्र-युक्ति । महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथु-ज्रयसे । रीरध । सु-वृक्तिम्
अध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः । अव । याः । चष्ते । अरुणः । सु-पर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सु-हस्ताः
अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् । सः । वः । ददत् । ऊर्मिम् । अद्य । सु-पूतम् । तस्मै । सोमम् । मधु-मन्तम् । सुनोत
यः । अनिध्मः । दीदयत् । अप्-सु । अन्तः । यम् । विप्रासः । ईळते । अध्वरेषु । अपाम् । नपात् । मधु-मतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्याय
याभिः । सोमः । मोदते । हर्षते । च । कल्याणीभिः । युवति-भिः । न । मर्यः । ताः । अध्वर्यो इति । अपः । अच्छ । परा । इहि । यत् । आसिञ्चाः । ओषधीभिः । पुनीतात्
॥24॥.
-र्व्_7:7।25-
एव । इत् । यूने । युवतयः । नमन्त । यत् । ईम् । उशन् । उषतीः । एति । अच्छ । सम् । जानते । मनसा । सम् । चिकित्रे । अध्वर्यवः । धिषणा । आपः । च । देवीः
यः । वः । वृताभ्यः । अकृणोत् । ओं इति । लोकम् । यः । वः । मह्याः । अभि-शस्तेः । अमुञ्चत् । तस्मै । इन्द्राय । मधु-मन्तम् । ऊर्मिम् । देव-मादनम् । प्र । हिणोतन । आपः
प्र । अस्मै । हिनोत । मधु-मन्तम् । ऊर्मिम् । गर्भः । यः । वः । सिन्धवः । मध्वः । उत्सः । घृत-पृष्ठम् । ईड्यम् । अध्वरेषु । आपः । रेवतीः । शृणुत । हवम् । मे
तम् । सिन्धवः । मत्सरम् । इन्द्र-पानम् । ऊर्मिम् । प्र । हेत । यः । उभे इति । इयर्ति । मद-च्युतम् । औशानम् । नभः-जाम् । परि । त्रि-तन्तुम् । वि-चरन्तम् । उत्सम्
आवर्वृततीः । अध । नु । द्वि-धाराः । गोषु-युधः । न । नि-यवम् । चरन्तीः । ऋषे । जनित्रीः । भुवनस्य । पत्नीः । अपः । वन्दस्व । स-वृधः । स-योनीः
॥25॥.
-र्व्_7:7।26-
हिनोत । नः । अध्वरम् । देव-यज्या । हिनोत । ब्रह्म । सनये । धनानाम् । ऋतस्य । योगे । वि । स्यध्वम् । ऊधः । श्रुष्टी-वरीः । भूतन । अस्मभ्यम् । आपः
आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथाम् । ऋतम् । च । रायः । च । स्थ । सु-अपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात्
प्रति । यत् । आपः । अदृश्रम् । आयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि । अध्वर्यु-भिः । मनसा । सम्-विदानाः । इन्द्राय । सोमम् । सु-सुतम् । भरन्तीः
आ । इमाः । अग्मन् । रेवतीः । जीव-धन्याः । अध्वर्यवः । सादयत । सखायः । नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्-विदानासः । एनाः
आ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देव-यन्तीः । अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ओं इति । वः । सु-शका । देव-यज्या
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0