ऋग्वेदसंहिता, पदपाठ · अध्याय 10.2
॥29॥.
-र्व्_7:5।30-
(र्व्_10,2)
पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतु-पते । यज । इह । ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतृॠणाम् । असि । आयजिष्ठः
वेषि । होत्रम् । उत । पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणः-दाः । ऋत-वा । स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन्
आ । देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्र-वोळ्हुम् । अग्निः । विद्वान् । सः । यजत् । सः । इत् । ओं इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति
तत् । वः । वयम् । प्र-मिनाम । व्रतानि । विदुषाम् । देवाः । अविदुः-तरासः । अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतु-भिः । कल्पयाति
यत् । पाक-त्रा । मनसा । दीन-दक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः । अग्निः । तत् । होता । क्रतु-वित् । वि-जानन् । यजिष्ठः । देवान् । ऋतु-शः । यजाति
विश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान । सः । आ । यजस्व । नृ-वतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षु-मतीः । विस्व-जन्याः
यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सु-जमिमा । जजान । पन्थाम् । अनु । प्र-विद्वान् । पितृ-यानम् । द्यु-मत् । अग्ने । सम्-इधानः । वि । भाहि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0