भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.25

10.25.1

॥10॥.
-र्व्_7:7।11-
(र्व्_10,25)
भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे

10.25.2

हृदि-स्पृशः । ते । आसते । विश्वेषु । सोम । धाम-सु । अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसु-यवः । विवक्षसे

10.25.3

उत । व्रतानि । सोम । ते । प्र । अहम् । मिनामि । पाक्या । अध । पिताइव । सूनवे । वि । वः । मदे । मृळ । नः । अभि । चित् । वधात् । विवक्षसे

10.25.4

सम् । ओं इति । प्र । यन्ति । धीतयः । सर्गासः । अवतान्-इव । क्रतुम् । नः । सोम । जीवसे । वि । वः । मदे । धारय । चमसान्-इव । विवक्षसे

10.25.5

तव । त्ये । सोम । शक्ति-भिः । नि-कामासः । वि । ऋण्विरे । गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गो--मन्तम् । अश्विनम् । विवक्षसे

10.25.6

॥11॥.
-र्व्_7:7।12-
पशुम् । नः । सोम । रक्षसि । पुरु-त्रा । वि-स्थितम् । जगत् । सम्-आकृणोषि । जीवसे । वि । वः । मदे । विश्वा । सम्-पश्यन् । भुवना । विवक्षसे

10.25.7

त्वम् । नः । सोम । विश्वतः । गोपाः । अदाभ्यः । भव । सेध । राजन् । अप । स्रिधः । वि । वः । मदे । मा । नः । दुः-शंसः । ईशत । विवक्षसे

10.25.8

त्वम् । नः । सोम । सु-क्रतुः । वयः-धेयाय । जागृहि । क्षेत्रवित्-तरः । मनुषः । वि । वः । मदे । द्रुहः । नः । पाहि । अंहसः । । विवक्षसे

10.25.9

त्वम् । नः । वृत्रहन्-तम । इन्द्रस्य । इन्दो इति । शिवः । सखा । यत् । सीम् । हवन्ते । सम्-इथे । वि । वः । मदे । युध्यमानाः । तोक-सातौ । विवक्षसे

10.25.10

अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः । अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे

10.25.11

अयम् । विप्राय । दाशुषे । वाजान् । इयर्ति । गो--मतः । अयम् । सप्त-भ्यः । आ । वरम् । वि । वः । मदे । प्र । अन्धम् । श्रोणम् । च । तारिषत् । विवक्षसे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc