भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.24

10.24.1

॥9॥.
-र्व्_7:7।10-
(र्व्_10,24)
इन्द्र । सोमम् । इमम् । पिब । मधु-मन्तम् । चमू इति । सुतम् । अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इतिपुरु-वसो । विवक्षसे

10.24.2

त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे । शची-पते । शचीनम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे

10.24.3

यः । पतिम् । वार्याणाम् । असि । रध्रस्य । चोदिता । इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे

10.24.4

युवम् । शक्रा । मायाविना । समीची इतिसम्-ईची । निः । अमन्थतम् । वि-मदेन । यत् । ईळिता । नासत्या । निर्- अमन्थतम्

10.24.5

विश्वे । देवाः । अकृपन्त । सम्-ईच्योः । निः-पतन्त्योः । नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति

10.24.6

मधु-मत् । मे । परायणम् । मधु-मत् । पुनः । आयनम् । ता । नः । देवा । देवतया । युवम् । मधु-मतः । कृतम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc