भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.26

10.26.1

॥12॥.
-र्व्_7:7।13-
(र्व्_10,26)
प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । नि-युतः । प्र । दस्रा । नियुत्-रथः । पूषा । अविष्टु । माहिनः

10.26.2

यस्य । त्यत् । महि-त्वम् । वाताप्यम् । अयम् । जनः । विप्रः । आ । वंसत् । धीति-भिः । चिकेत । सु-स्तुतीनाम्

10.26.3

सः । वेद । सु-स्तुतीनाम् । इन्दुः । न । पूषा । वृषा । अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति

10.26.4

मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् । मतीनाम् । च । साधनम् । विप्राणाम् । च । आधवम्

10.26.5

प्रति-अर्धिः । यज्ञानाम् । अश्व-हयः । रथानाम् । ऋषिः । सः । यः । मनुः-ह् इतः । विप्रस्य । यवयत्-सखः

10.26.6

॥13॥.
-र्व्_7:7।14-
आधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च । वासः-वायः । अवीनाम् । आ । वासांसि । मर्मृजत्

10.26.7

इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा । प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः

10.26.8

आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः । विश्वस्य । अर्थिनः । सखा । सनः-जाः । अनप-च्युतः

10.26.9

अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः । भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc