ऋग्वेदसंहिता, पदपाठ · अध्याय 10.23
॥8॥.
-र्व्_7:7।9-
(र्व्_10,23)
यजामहे । इन्द्रम् । वज्र-दक्षिणम् । हरीनाम् । रथ्यम् । वि-व्रतानाम् । प्र । श्मश्रु । दोधुवत् । ऊर्ध्व-था । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा
हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघ-वा । वृत्र-हा । भुवत् । ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । च् इत्
यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरि-भिः । आ । तिष्ठति । मघ-वा । सन-श्रुतः । इन्द्रः । वाजस्य । दीर्घ-श्रवसः । पतिः
सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते । अव । वेति । सु-क्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम्
यः । वाचा । वि-वाचः । मृध्र-वाचः । पुरु । सहस्रा । असिवा । जघान । तत्-तत् । इत् । अस्य । पैंस्यम् । गृणीमसि । पिताइव । यः । तविषीम् । ववृधे । शवः
स्तोमम् । ते । इन्द्र । वि-मदाः । अजीजनन् । अपूर्व्यम् । पुरु-तमम् । सु-दानवे । विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे
माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । वि-मदस्य । च । ऋषेः । विद्म । हि । ते । प्र-मतिम् । देव । जामि-वत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0