भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.19

10.19.1

॥28॥.
-र्व्_7:7।1-
(र्व्_10,19)
नि । वर्तध्वम् । मा । अनु । गात । अस्मान् । सिसक्त । रेवतीः । अग्नीषोमा । पुनर्वसूइतिपुनः-वसू । अस्मे इति । धारयतम् । रयिम्

10.19.2

पुनः । एनाः । नि । वर्तय । पुनः । एनाः । नि । आ । कुरु । इन्द्र । एनाः । नि । यच्छतु । अग्निः । एनाः । उप-आजतु

10.19.3

पुनः । एताः । नि । वर्तन्ताम् । अस्मिन् । पुष्यन्तु । गो--पतौ । इह । एव । अग्ने । नि । धारय । इह । तिष्ठतु । या । रयिः

10.19.4

यत् । नि-यानम् । नि-अयनम् । सम्-ज्ञानम् । यत् । परायनम् । आवर्तनन् । नि-वर्तनम् । यः । गोपाः । अपि । तम् । हुवे

10.19.5

यः । उत्-आनट् । वि-अयनम् । यः । उत्-आनट् । परायनम् । आवर्तनम् । न् इ-वर्तनम् । अपि । गोपाः । नि । वर्तताम्

10.19.6

आ । नि-वर्त । नि । वर्तय । पुनः । नः । इन्द्र । गाः । देहि । जीवाभिः । भुनजामहै

10.19.7

परि । वः । विश्वतः । दधे । ऊर्जा । घृतेन । पयसा । ये । देवाः । के । च । यज्ञियाः । ते । रय्या । सम् । सृजन्तु । नः

10.19.8

आ । नि-वर्तन । वर्तय । नि । नि-वर्तन । वर्तय । भूम्याः । चतस्रः । प्र-दिशः । ताभ्यः । एनाः । नि । वर्तय

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc