ऋग्वेदसंहिता, पदपाठ · अध्याय 10.18
॥25॥.
-र्व्_7:6।26-
(र्व्_10,18)
परम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देव-यानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्र-जाम् । रिरिषः । मा । उत । वीरान्
मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्र-तरम् । दधानाः । आप्यायमानाः । प्र-जया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः
इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देव-हूतिः । नः । अद्य । प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्र-तरम् । दधानाः
इमम् । जीवेभ्यः । परि-धिम् । दाधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् । शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन
यथा । अहानि । अनु-पूर्वम् । भवन्ति । यथा । ऋतवः । ऋतु-भिः । यन्ति । साधु । यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम्
॥26॥.
-र्व्_7:6।27-
आ । रहत । आयुः । जरसम् । वृणानाः । अनु-पूर्वम् । यतमानाः । यति । स्थ । इह । त्वष्टा । सु-जनिमा । स-जोषाः । दीर्घम् । आयुः । करति । जीवसे । वः
इमाः । नारीः । अविधवाः । सु-पत्नीः । आञ्जनेन । सर्पिषा । सम् । विशन्तु । अनश्रवः । अनमीवाः । सु-रत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे
उत् । ईर्ष्व । नारि । अभि । जीव-लोकम् । गत-असुम् । एतम् । उप । शेषे । आ । इहि । हस्त-ग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनि-त्वम् । अभि । सम् । बभूथ
धनुः । हस्तात् । आददानः । मृतस्य । अस्मे इति । क्षत्राय । वर्चसे । बलाय । अत्र । एव । त्वम् । इह । वयम् । सु-वीराः । विश्वाः । स्पृधः । अभि-मातीः । जयेम
उप । सर्प । मातरम् । भूमिम् । एताम् । उरु-व्यचसम् । पृथिवीम् । सु-शेवाम् । ऊर्ण-म्रदाः । युवतिः । दक्षिणावते । एषा । त्वा । पातु । निः-ऋतेः । उप-स्थात्
॥27॥.
-र्व्_7:6।28-
उत् । श्वञ्चस्व । पृथिवि । मा । नि । बाधथाः । सु-उपायना । अस्मै । भव । सु-उपवञ्चना । माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि
उत्-श्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् । ते । गृहासः । घृत-श्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र
उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । नि-दधत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु
प्रतीचीने । माम् । अहनि । इष्वाः । पर्णम्-इव । आ । दधुः । प्रतीचीम् । जग्रभ । वाचम् । अश्वम् । रशनया । यथा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0