ऋग्वेदसंहिता, पदपाठ · अध्याय 10.20
॥1॥.
-र्व्_7:7।2-
(र्व्_10,20)
भद्रम् । नः । अपि । वातय । मनः
अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुः-धरीतुम् । यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः
यम् । आसाः । कृप-नीळम् । भासाकेतुम् । वर्धयन्ति । भ्राजते । श्रेणि-दन्
अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् । कविः । अभ्रम् । दीद्यानः
जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे । मिन्वन् । सद्म । पुरः । एति
सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति । अग्निम् । देवाः । वाशी-मन्तम्
॥2॥.
-र्व्_7:7।3-
यज्ञ-सहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य । अद्रेः । सूनुम् । आयुम् । आहुः
नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरितिस्युः । अग्निम् । हविषा । वर्धन्तः
कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् । हिरण्य-रूपम् । जनिता । जजान
एव । ते । अग्ने । वि-मदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । स-जोषाः । गिरः । आ । वक्षत् । सु-मतीः । इयानः । इषम् । ऊर्जम् । सु-क्षितिम् । विश्वम् । आ । अभार् इत्य् अभाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0