ऋग्वेदसंहिता, पदपाठ · अध्याय 10.17
॥22॥.
-र्व्_7:6।23-
(र्व्_10,17)
त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति । यमस्य । माता । परि-उह्यमाना । महः । जाया । विववस्वतः । ननाश
अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । स-वर्णाम् । अददुः । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ओं इति । द्वा । मिथुना । सरण्यूः
पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्ट-पशुः । भुवनस्य । गोपाः । सः । त्वा । एतेभ्यः । परि । ददत् । पितृ-भ्यः । अग्निः । देवेभ्यः । सु-विदत्र् इयेभ्यः
आयुः । विश्व-आयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्र-पथे । पुरस्तात् । यत्र । आसते । सु-कृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु
पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभय-तमेन । नेषत् । स्वस्ति-दाः । आघृणिः । सर्व-वीरः । अप्र-युच्छन् । पुरः । एतु । प्र-जानन्
॥23॥.
-र्व्_7:6।24-
प्र-पथे । पथाम् । अजनिष्ट । पूषा । प्र-पथे । दिवः । प्र-पथे । पृथिव्याः । उभे इति । अभि । प्रिय-तमे । सध-स्थे । आ । च । परा । च । चरति । प्र-जानन्
सरस्वतीम् । देव-यन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने । सरस्वतीम् । सु-कृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात्
सरस्वति । या । स-रथम् । ययाथ । स्वधाभिः । देवि । पितृ-भिः । मदन्ती । आसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति
सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभि-नक्षमाणाः । सहस्र-अर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि
आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृत-प्वः । पुनन्तु । वि श्वम् । हि । रिप्रम् । प्र-वहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि
॥24॥.
-र्व्_7:6।25-
द्रप्सः । चस्कन्द । प्रथमाम् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः । समानम् । योनिम् । अनु । सम्-चरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः
यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहु-च्युतः । धिषणायाः । उप-स्थात् । अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्-कृतम्
यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा । अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे
पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः । अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0