ऋग्वेदसंहिता, पदपाठ · अध्याय 10.16
॥19॥.
-र्व्_7:6।20-
(र्व्_10,16)
मा । एनम् । अग्ने । वि । दहः । मा । अभि । शोचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम् । यदा । शृतम् । कृणवः । जात-वेदः । अथ । ईम् । एनम् । प्र । हिणुतात् । पितृ-भ्यः
शृतम् । यदा । करसि । जात-वेदः । अथ । ईम् । एनम् । परि । दत्तात् । पितृ-भ्यः । यदा । गच्छाति । असु-नीतिम् । एताम् । अथ । देवानाम् । वश-नीः । भवाति
सूर्यम् । चक्षुः । गच्छतु । वातम् । आत्मा । द्याम् । च । गच्छ । पृथिवीम् । च । धर्मणा । अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः
अजः । भागः । तपसा । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते । अर्चिः । याः । ते । शिवाः । तन्वः । जात-वेदः । ताभिः । वह । एनम् । सु-कृताम् । ओं इति । लोकम्
अव । सृज । पुनः । अग्ने । पितृ-भ्यः । यः । ते । आहुतः । चरति । स्वधाभिः । आयुः । वसानः । उप । वेतु । शेषः । सम् । गच्छताम् । तन्वा । जात-वेदः
॥20॥.
-र्व्_7:6।21-
यत् । ते । कृष्णः । शकुनः । आतुतोद । पिपीलः । सर्पः । उत । वा । श्वापदः । अग्निः । तत् । विश्व-अत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्मणान् । आविवेश
अग्नेः । वर्म । परि । गोभिः । व्ययस्व । सम् । प्र । ऊणुष्व । पीवसा । मेदसा । च । न । इत् । त्वा । धृष्णुः । हरसा । जर्हृषाणः । दधृक् । वि-धक्ष्यन् । परि-अङ्खयाते
इमम् । अग्ने । चमसम् । मा । वि । जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम् । एषः । यः । चमसः । देव-पानः । तस्मिन् । देवाः । अमृताः । मादयन्ते
क्रव्य-अदम् । अग्निम् । प्र । हिणोमि । दूरम् । यम-राज्ञः । गच्छतु । रिप्र-वाहः । इह । एव । अयम् । इतरः । जात-वेदाः । देवेभ्यः । हव्यम् । वहतु । प्र-जानन्
यः । अग्निः । क्रव्य-अत् । प्र-विवेश । वः । गृहम् । इमम् । पश्यन् । इतरम् । जात-वेदसम् । तम् । हरामि । पितृ-यज्ञाय । देवम् । सः । घर्मम् । इन्वात् । परमे । सध-स्थे
॥21॥.
-र्व्_7:6।22-
यः । अग्निः । क्रव्य-वाहनः । पितॄन् । यक्षत् । ऋत-वृधः । प्र । इत् । ओं इति । हव्यानि । वोचति । देवेभ्यः । च । पितृ-भ्यः । आ
उशन्तः । त्वा । नि । धीमहि । उशन्तः । सम् । इधीमहि । उशन् । उशतः । आ । वह । पितॄन् । हविषे । अत्तवे
यम् । त्वम् । अग्ने । सम्-अदहः । तम् । ओं इति । निः । वापय । पुनरिति । कियाम्बु । अत्र । रोहतु । पाक-दूर्वा । वि-अल्कशा
शीतिके । शीतिकावति । ह्रादिके । ह्रादिकावति । मण्डूक्या । सु । सम् । गमः । इमम् । सु । अग्निम् । हर्षय
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0