भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.167

10.167.1

॥24॥.
-र्व्_8:8।25-
(र्व्_10,167)
तुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजस् इ । त्वम् । रयिम् । पुरु-वीराम् । ओं इति । नः । कृधि । त्वम् । तपः । परि-तप्य । अजयः । [स्वर् इति]स्वः

10.167.2

स्वः-जितम् । महि । मन्दानम् । अन्धसः । हवामहे । परि । शक्रम् । सुतान् । उप । इमम् । नः । यज्ञम् । इह । बोधि । आ । गहि । स्पृधः । जयन्तम् । मघ-वानम् । ईमहे

10.167.3

सोमस्य । राज्ञः । वरुणस्य । धर्मणि । बृहस्पतेः । अनु-मत्याः । ओं इति । शर्मणि । तव । अहम् । अद्य । मघ-वन् । उप-स्तुतौ । धातः । वि-धातरिति वि-धातः । कलशान् । अभक्षयम्

10.167.4

प्र-सूतः । भक्षम् । अकरम् । चरौ । अपि । स्तोमम् । च । इमम् । प्रथमः । सूरिः । उत् । मृजे । सुते । सातेन । यदि । आ । अगमम् । वाम् । प्रति । विश्वामित्रजमदग्नी इति । दमे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc