भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.166

10.166.1

॥23॥.
-र्व्_8:8।24-
(र्व्_10,166)
ऋषभम् । मा । समानानाम् । स-पत्नानाम् । वि-ससहिम् । हन्तारम् । शत्रूणाम् । कृधि । वि-राजम् । गो--पतिम् । गवाम्

10.166.2

अहम् । अस्मि । सपत्न-हा । इन्द्रः-इव । अरिष्टः । अक्षतः । अधः । स-पत्नाः । मे । पदोः । इमे । सर्वे । अभि-स्थिताः

10.166.3

अत्र । एव । वः । अपि । नह्यामि । उभे इति । आत्नीरिवेत्यात्नीर्-इव । ज्यया । वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान्

10.166.4

अभि-भूः । अहम् । आ । अगमम् । विश्व-कर्मेण । धाम्ना । आ । वः । चित्तम् । आ । वः । व्रतम् । आ । वः । अहम् । सम्-इतिम् । ददे

10.166.5

योग-क्षेमम् । वः । आदाय । अहम् । भूयासम् । उत्-तमः । आ । वः । मूर्धानम् । अक्रमीम् । अधः-पदात् । मे । उत् । वदत । मण्डूकाः-इव । उदकात् । मण्डूकाः । उदकात्-इव

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc