भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.168

10.168.1

॥25॥.
-र्व्_8:8।26-
(र्व्_10,168)
वातस्य । नु । महिमानम् । रथस्य । रुजन् । एति । स्तनयन् । अस्य । घोषः । दि वि-स्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन्

10.168.2

सम् । प्र । ईरते । अनु । वातस्य । वि-स्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः । ताभिः । स-युक् । स-रथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा

10.168.3

अन्तरिक्षे । पथि-भिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति । अपाम् । सखा । प्रथम-जाः । ऋत-वा । क्व । स्वित् । जातः । कुतः । आ । बभूव

10.168.4

आत्मा । देवानाम् । भुवनस्य । गर्भः । यथावशम् । चरति । देवः । एषः । घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc