ऋग्वेदसंहिता, पदपाठ · अध्याय 10.165
॥22॥.
-र्व्_8:8।23-
(र्व्_10,165)
देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निः-ऋत्याः । इदम् । आजगाम । तस्मै । अर्चाम । कृणवाम । निः-कृतिम् । शम् । नः । अस्तु । द्वि-पदे । शम् । चतुः-पदे
शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु । अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु
हेतिः । पक्षिणी । न । दभाति । अस्मान् । आष्ट्र्याम् । पदम् । कृणुते । अग्नि-धाने । शम् । नः । गोभ्यः । च । पुरुषेभ्यः । च । अस्तु । मा । नः । हिंसीत् । इह । देवाः । कपोतः
यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति । यस्य । दूतः । प्र-हितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे
ऋचा । कपोतम् । नुदत । प्र-नोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् । सम्-योपयन्तः । दुः-इतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0